________________
मणिपति चरित्रे तिलभट्टो कथा
इय एवमाइ भणिया सा पभणइ 'किं न पाव ! न जाणसि । जह अहयं तिलभक्खा विक्खाया देवया भुवणे ॥ २० ॥ ता जइ जीविउकामा तुमं तओ मज्झ नियतिले । सव्वे देहि न जायइ जेणं उवद्दवो तुह सरिरम्मि ॥ २१ ॥ न य नाममपि तिलाणं तेसिं तुमए कयाइ गहियव्वं' । इय भणिओ सो तुट्टो पडिवज्जइ तीइ तं वयणं ॥ २२ ॥ अह सा परितुट्ठमणा संपत्ता तक्खणेण निय गेहं । सो वि य भयेण दाहज्जरपरिगओ आगओ सहिं ॥ २३ ॥ खणमित्तेणं य मओ तव्वेलं चेव तीइ वयणेणं । नीओ विडेहिं दद्धो मुणिवइमुणिणो सगासंमि ॥ २४ ॥
इत्येवमादि भणिता सा प्रभणति किं न पाप ! जानासि । यथाहं तिलभक्षा विख्याता देवताभुवने ॥ २० ॥
तस्मात् यदि जीवितुकामस्त्वं ततः मम निजतिलान् । सर्वान् देहि न जायते येन उपद्रवः तव शरीरे ॥ २१ ॥ न च नामापि तिलानां तेषां त्वया कदापि ग्रहीतव्यम् । इति भणितः स तुष्टः प्रतिपद्यते तस्याः तं वचनम् ॥ २२ ॥ अथ सा परितुष्टमनाः संप्राप्ता तत्क्षणेन निजगेहम् । सोऽपि च भयेन दाहज्वरपरिगत आगतः स्वगृहम् ॥ २३ ॥ क्षणमात्रेण च मृतस्तद्वेलां एव तस्या वचनेन । नीतो विटैः दग्धः मुनिपतिमुनेः सकाशे ॥ २४ ॥