________________
॥ ॐ अहँ नमः ॥ नमिऊण महावीरं, चउविहाइसयसंजुयं वीरं । मुणिवइचरियं वुच्छं सुसाहुगुणरयणपडिहत्थं ॥ १ ॥ अत्थि इह भरहवासे मुणिवइया नाम निरुवमा नयरी । तीए मुणिवइराया पणइयण-वच्छलो आसि ॥ २ ॥ तस्स पुहवीदेवी, ता ताण सुओ जणिय जणमणाणंदो । नामेणं मुणिचंदो नियबंधवकुमुयवणचंदो ॥ ३ ॥ अह अन्नया नरिंदो पलियं दठूण जायसंवेगो । ठविण सुयं रज्जे दमघोषंतंमि निक्खंतो ॥ ४ ॥
नत्वा महावीरं चतुर्विधातिशयसंयुक्तं वीरम् । मुनिपति-चरित्रं वक्ष्यामि सुसाधु-र्गुणरत्नप्रतिहस्तम् ॥ १ ॥ अस्तीह भरतवर्षे, मुनिपतिका नामा निरुपमा नगरी । तस्यां मुनिपतिराजा, प्रणतिजनवत्सल आसीत् ॥ २ ॥ तस्य च पृथ्वीदेवी ततस्तयोः सुतो जनितजनमन-आनन्दः । नाम्ना मुनिचन्द्रो निजबान्धवकुमुदवनचन्द्रः ॥ ३ ॥ अथाऽन्यदा नरेन्द्रः पलितं दृष्ट्वा जातसंवेगः । स्थापयित्वा सुतं राज्ये, दमघोषान्ते निष्क्रान्तः ॥ ४ ॥
१. प्रतिहस्तं - पूर्ण (देश्य)