________________
मणिपति चरित्रे कठमुनिकथा
१२१
कट्ठमुणी वि महप्पा कट्ठाणुट्ठाणपालणजुत्तो। विहरंतो संपत्तो चंपाए दिव्वजोएणं ॥ ३२ ॥ तत्थ य भिक्खासमए हिंडंतो मंदिरंमि संपत्तो । वज्जाइ तीए नाओ जह एसो कट्ठसिट्ठिमुणी ॥ ३३ ॥ जाणावेइ मह दोसमेयं लोयस्स इत्थ नयरीए । ता तह करेमि सिग्घं जह कीरइ कहवि निव्विसओ ॥ ३४ ॥ तो तीई तस्स दिन्नं सहिरन्नं मंडयाइयं अन्नं । तम्मिय गयम्मि सहसा चोरो चोरो ति पोक्करियं ॥ ३५ ॥ आरक्खिएण गहिओ सो नीओ रायमंदिरे जाव । धाईइ ताव दिट्ठो सहसच्चिय पच्चभिन्नाओ ।। ३६ ।।
कठमुन्यपि महात्मा कष्टानुष्ठानपालनयुक्तः । विहरन् संप्राप्तः चम्पायां दैवयोगेन ॥ ३२ ॥ तत्र च भिक्षा-समये हिण्डमानो मन्दिरे संप्राप्तः । वर्जया तया ज्ञातो यथैष कठश्रेष्ठिमुनिः ॥ ३३ ॥ ज्ञापयति मम दोषमेतद् लोकस्यात्र नगर्याम् । ततस्तथा करोमि शीघ्रं यथा क्रियते कथमपि निर्विषयः ॥ ३४ ॥ ततस्तया तस्मै दत्तं सहिरण्यं मण्डकादिकमन्नम् । तस्मिन् गते सहसा चौरः चौर इति पूत्कृतम् ॥ ३५ ॥ आरक्षितेन गृहीतो स नीतः राजमन्दिरे यावत् । धात्र्या तावत् दृष्टः सहसैव प्रत्यभिज्ञातः ॥ ३६ ॥