________________
१२२
मणिपति चरित्रे
पाएसु निवडिऊणं ताहे सा रोविउं समाढत्ता । रन्ना भणिया 'अम्मो ! किं रुयसि तुमं अयंडे वि?' ॥ ३७ ॥ तीए भणियं 'पुत्तय ! तुह जणओ एस गहियपव्वज्जो । सुचिराओ मए दिट्ठो तेणाहं रोविउं लग्गा ॥ ३८ ॥ तो रन्ना घरमज्झे निवसिओ आसणम्मि पवरम्मि । भणिओ य गिण्हसु इमं रज्जं तुह किंकरो अहयं ॥ ३९ ॥ वज्जा वियाणिऊणं तहाविहं वइयरं भयग्घत्था। नट्ठा बडुएणं समं राया जाओ मुणिभत्तो ॥ ४० ॥ तो मुणिणा धम्मकहं तस्स कया नीए सोऽपि पडिबुद्धो । सावगधम्मेक्कमणो संजाओ जायसंवेगो ॥ ४१॥
पादयो - र्निपत्य तदा सा रोदितुं समारब्धा । राज्ञा भणिता हे अम्मे ! किं रोदिषि त्वमकाण्डेऽपि ॥ ३७ ॥ तया भणितं पुत्रक ! तव जनक एष गृहीतप्रव्रज्यः । सुचिराद् मया दृष्टस्तेनाहं रोदितुं लग्ना ॥ ३८ ॥ ततः राज्ञा गृहमध्ये निवासित आसने प्रवरे । भणितश्च गृहाण इदं राज्यं तव किंकरोऽहम् ॥ ३९ ॥ वर्जा विज्ञाय तथाविधं व्यतिकरं भयग्रस्ता। नष्टा बटुकेनसमं, राजा जातो मुनिभक्तः ॥ ४० ॥ ततो मुनिना धर्मकथां तस्मै कृता नृपस्सोऽपि प्रतिबुद्धः । श्रावकधर्मैकमनाः संजातो जातस्संवेगः ॥ ४१ ॥