________________
आसनयुक्तिः। अभिषेके च यात्रायां उत्सवे जय-कर्मणि । अयस्कान्तोपघटित: * संग्राम पौठ इष्यते ॥ ४२१॥ . गरुडोहार-(१४) रचिते वर्षासु नृपतिर्वसेत् । .. शुद्धरत्न-मयं पीठं भजते धन-गजिते ॥ ४२२ ॥ सामान्य-प्रास्तरः पौठो विलासाय (१५) महोभुजाम् । एषां मानं गुणाश्चापि विज्ञ या धातुपोठवत् ॥ ४२३ ॥
अथ काष्ठपौठाः।
तद्यथा, मानन्तु पूर्ववदेव । सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः । जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२ ४ ॥ 'सिद्धिः' सार्थ-संसिय विजयाय च वैरिणाम् । 'शुभः' स्यादभिषेके च सम्पहरि-निवारण: ॥ ४२५ ॥ पालाशो राजकः पाठः सुख-सम्पत्ति-कारकः । 'जयः' स्यादभिषेके च शुभः शत्रु विनाशन: ॥ ४२६ ॥ सुखो रोग-विनाशाय सिद्धिः सर्वार्थदायिका। सम्पदुच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥ चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम्। जयः स्याद्रोग-नाशाय शुभः सौख्य प्रयच्छति ॥ ४२८ ॥
(१४) गरुड़ोद्धार इति (ख) पुस्तकपाठः । ' (१५) विशालाय इति (ख) पुस्तक पाठः ।
* अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित्।