________________
युक्तिकल्पतरौतारको ग्रहतुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? । यजतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥ कालयको जारकोऽपि भूभुजामभिषेचने। पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥ वाकुलस्तु शुभः पोठो भूभुजामभिषेचने। जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः । ४३१ ॥ सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः । जावको (१८) जरणायस्थादिति भोजस्य सम्मतम् ॥ ४३२ ॥ एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः । वाकुलेन समः कार्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥ ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा । गाम्भारौ * सदृशः पीठस्तेषां कार्यस्तथा गुणः ॥ ४३४ ॥ फलिनच ससाराश्च रक्तसाराश्च ये नगाः । तेषां पानसवत् पौठस्तथैव गुणमावहेत् ॥ ४३५ ॥
-
-
-
अथनिषेधः ।
विज्ञेयो निन्दितः पाठः लोहोत्थः सर्वधातुजे । शिलोत्यः शार्करो वजाः कर्करच विशेषतः ॥
काष्ठजेषु च पोठेषु नासारा नातिसारिणः ॥ ४३६ ॥ (१६) आन्यत्तरति (अन्य तु)) (क)-(ग) पुस्तक पाठः । (१७) नागरका इति (ख) पुस्तक पाठः । (१८) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।
* "गामारौ निर्मितं शस्त नान्यदारुमयं शुभम्" इति तन्त्रशास्त्र ।