________________
आसनयुक्तिः । प्रबोषित्वा नरपतिः कत्नां साधयति क्षितिम् । भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥ शुद्धैमरकतैर्युक्तं पादाने पद्मकोषिकाः । द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूपणम् ॥ ३७१ ॥ 'भृङ्ग-सिंहासन' नाम शत्रुक्षय-जयप्रदम् । निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥ इन्द्रनीलैमहानोले: काञ्चनेनापि चित्रितम् । चरणाग्रे मृगशिरश्चत्वारिंशञ्च पुत्रिकाः ॥ ३७३ ॥ नौलवस्त्रादि-युक्तञ्च 'मृगसिंहासन' मतम् । लक्ष्मी-विजय-सम्पत्ति-नैरुज्य-प्रदमुत्तमम् ॥ ३७४ ॥ केशरे(वे) णोपघटितं हयमालोपशोभितम् । समस्तवस्त्रभूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥ चरणाने हयशिरः चित्रवस्त्रादि-भूषणम्। 'हयसिंहासन' नाम लक्ष्मी-विजय-वईनम् ॥ ३७६ ॥ इत्येतत्कथितं सारं महासिंहासनाष्टकम् । यथा भोजेन लिखितं यथाश्चान्यैश्चपण्डितैः ॥ ३७७ ॥ एतस्यातिक्रमं दम्भाद यः कुर्यात् पृथिवी-पतिः । अचिरादेव कुरुते तस्य मृत्यु(१६)रितिक्रमम् ॥ ३७८ ॥ परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७८ ॥ खलग्न-मित्रासन-मध्य-संस्थितिनंदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८०॥ '
इति श्रीभोजराजीये विशेषासनोद्देशः । (१५) मानोपशोभितम् इति (ग) पुस्तक पाठः। (१६) तस्य मृत्युम इति (ख) पुस्तक पाठः ।