________________
५३
युक्तिकल्पतरौ
चरणाग्रे शङ्खनाभिः पुत्रिका - सप्तविंशतिः ।
स्थाने स्थाने विधातव्याः शुद्ध- स्फटिक संस्कृताः ॥ ३६१ ॥ शक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् । पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥ विद्रुमैरपि वैदुय्य: (८) काञ्चनेनापि शोभितः । चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका । ३६३ ॥ माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् । 'गजसिंहासन' नाम साम्राज्य- फलदायकम् ॥ ३६४ ॥ शालकाष्ठेन घटितो हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः || ३६५ ॥ चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः । गोमेदकोपघटिता: (११) पोतवस्त्र - विभूषणम् ( १२ ) ॥ २५६ ॥ 'हंससिंहासनं' नाम सर्व्वानिष्ट - विनाशनम् (१३) । चन्दनेनोपघटितः सिंह मालोप - (१४) शोभितः ॥ ३६७ ॥ शुद्ध-होरकचित्राङ्गः शुद्धकाञ्चन-निर्मितः ।
चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥ मुक्ताशुक्तिभिरन्यैश्च निम्मलैरेव भूषणम् ।
शुद्दशुण्डावृतं ह्य ेतत् 'सिंह- सिंहासनं' मतम् ॥ ३६८ ॥
U
( 2 ) वैदुर्य्यः इति (ग) पुस्तक पाठः । ( १० ) - कं विभूषितम् इति ( ख ) - (ग) पुस्तक पाठः ।
(११) घटिता, घटितो इति ( ख ) - (ग) पुस्तक पाठः । ( १२ ) विभूषितम् इति (ख) विभूषण: ( ग ) पुस्तक पाठः । (१३) प्रणाशनम् इति (ख) पुस्तक पाठः । (१४) मानोपशोभितम् इति (ग) पुस्तक पाठः ।