________________
श्रासनयुक्तिः ।
सिंहान्वितानि ज्ञेयानि चरणानि युगे (५) क्रमात् । पद्मः शङ्को गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ ३५१ ॥ अष्टौ सिंहासनानीति नीति-शास्त्र-विदो विदुः श्रादित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ ३५२ ॥ राज्ञः स्वहस्तैरष्टाभिरायाम- परिणाहयोः ।
'राज पात्र' मिदं नाम सोपानं पुरुषोव्रतम् ॥ ३५३ ॥ तदईमानन्तमध्ये राजासनमुदाहृतम् । अद्दव्रत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ ३५४ ॥ दिगष्टब्धि- (६) कोणः स्याद्दह्मादीनां यथाक्रमम् ॥ ३५५॥ अथाष्टानां लक्षणानि ।
गम्धारी-काष्ठ-घटितः पद्ममालोप- चित्रितः । पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृत: (७) ॥ ३५६ ॥ चरणाग्रे पञ्चकोषात् पद्मराग - विचित्रिताः । दिवष्टौ पुत्रिका राज द्वादशाङ्गुलि-समिताः ॥ ३५७ ॥ राजासन- चतस्रस्तु एवं द्वादश-पुत्रिका: । रत्नश्च नवभिः कार्य्यं निर्माणञ्चान्तराऽन्तरा ॥ ३५८ ॥ रक्तवस्त्रावृतं ह्य ेतत् 'पद्म-सिंहासनं' मतम् । अनोषित्वा नरपतिः प्रतापमति - विन्दति ॥ ३५८ ॥ भद्रवाकाष्ठ (८) घटितः शङ्खमालोपशोभितः । शुद्दस्फटिक-चित्राङ्गः शुद्ध- रौप्योपशोभितः ॥ ३५० ॥
(५) युगैः क्रमात् इति ( ख ) - (ग) पुस्तक पाठः । (६) दिगष्टब्धि इति (ख) दिगष्टाईवि - (ग) पुस्तक पाठः । (७) सम्बृत इति (ख)-(ग) पुस्तक पाठः।
(६) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः ।
५१