________________
युक्तिः ।
एक-हि-पञ्च सप्तानि शुभान्यन्यानि चान्यथा । आयाम-परिणाहाभ्यां साई - द्वादश- हस्तकम् ॥ ३३७ ॥ एकन्तु मङ्गलं नाम ग्टहं सुख-विवर्द्धनम् । आयाम-परिणाहाभ्यां साईहस्त चतुर्दश ॥ ३३८ ॥ इदं 'कमलकं' नाम ग्टह- सम्पत्ति-कारकम् । श्रायाम-परिणाहाभ्यां साई - हस्तस्तु षोड़श ॥ ३३८ ॥ इदं हि सर्व्वतोभद्रं खामिनः सुखकारकम् । आयाम-परिणाहाभ्यां साचाष्टादश- हस्तकम् ॥ ३४० ॥ 'कल्याण'नाम वेश्मेदं धन-धान्य-सुखप्रदम् । श्रायाम-परिणाहाभ्यां सार्द्धविंशति हस्तकम् ॥ ३४१ ॥ इदं हि सुखदं नाम भर्त्तुः सुख-विवर्धनम् । मया-यदिदमुद्दिष्टं गृहपञ्चकम तम् ॥ ३४२ ॥ न तेषु स्थान- नियमः सर्व्वेष्वेतानि कारयेत् । स्थानं मानञ्च दोषाश्च ये प्रोक्तास्तु मया क्रमात् ॥ ३४३ ॥ तद्दिचार्य गृहं कृत्वा ग्टहस्थः सुखमश्शु ते ।
प्रज्ञानादथवा मोहात् योऽन्यथा गृहमाचरेत् ॥ ३४४ ॥ स विषीदति नश्येत तस्य कीर्त्ति - -कुल-क्षयम् (१८) । प्राचीराणां (१८) न नियमो गृहस्थानान्तु विद्यते ॥ ३४५॥ यथा वास्तु यथाशक्ति प्राचीरानुचयेद गृहो ।
गृह-वेधो (२०) यथा नस्यात्तथा प्राचीर कल्पना ॥ ३४६ ॥ इति श्रोभोजराजीये युक्तिकल्पतरौ गृहयुक्तिः ।
(१८) तस्य कीर्त्तिः कुलम् मूलम् इति (क) पुस्तक पाठः । कीर्त्तिः कुलम्बलम् इति (ग) पुस्तक पाठः ।
99
(१८) प्राचीनानां इति (ख) पुस्तक पाठः । ( २० ) मेदो इति (ग) पुस्तक पाठः ।
७
४८