________________
वास्तुयुक्तिः ।
2
अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृन्तति ॥ २६१ ॥ दीर्घ - एकविंशतिः २१, प्रस्थ - विंशतिः २० | इति सर्व्वतोभद्रः ।
भ्रष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयम् । राजहस्तोन्नतः (2) कार्य्यो वुधश्चास्याधिदेवता ॥ २६२ ॥
रक्षका वसवश्चास्य पूज्यास्तत्र प्रयत्नतः । अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥ २६३ ॥ पीतपट्टाहतो ह्येष सर्व्वानिष्टविनाशनः । तत्र स्थाता क्षिति-पतिर्नरिष्टे (१०) रवमृद्यते ॥ २६४ ॥ राजदण्डो (११) भवेद्दीर्घः प्रसरे राज- हस्तकः । राजहस्ते राजहस्ते प्रकोष्ठान् तत्र कारयेत् ( १२ ) ॥२५॥ अयं नान्दीमुखो नाम चन्द्रश्चास्थाधिदेवता । नक्षत्र-लोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥ २६६ ॥ द्वाविंशतिस्तु द्वाराणि दीर्घे दश तथान्तरे ।
अन्यत्र दीर्घ-एकं स्यात् प्रसरे एकमेव च ॥ २६७ ॥
दीर्घ- द्वितये दशद्दाराणि प्रसर- द्वितये एकं कृत्वा वा द्वितीयमेवं
हाविंशति - (२२) द्वाराणि ।
शुक्ल-चित्रेण सहितः शुक्लपट्टेन शोभितः ।
सर्व्वार्थ-साधको राज्ञां लक्ष्मी-विजयवर्द्धनः ॥ २६८ ॥ दैर्घ-एकादश-११, प्रस्थे - १०, इति नान्दीमुखः ।
(2) अ तत् सन्दर्भस्थ - पारिभाषिको राजहस्ती ग्राह्यः । (१०) नरिष्टं रवमृद्यते इति (ग) पुस्तक पाठः । (११) अल राजदण्डपदेनैतत् सन्दर्भस्थः पारिभाषिको ग्राह्यः ।
(१२) राजहस्त... इत्यारभ्य रक्षक - इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके
नास्ति ।