________________
argयुक्तिः ।
४७ ॥
एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते । श्रायामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ राजच्छत्रैकमानेन राज-दण्ड उदाहृतः । अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥ अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् । अस्मिन् विजय-बृद्धिञ्च सौख्यञ्च समवाप्नुयात् ॥ २४८ ॥ यो राजा दम्भतो(१) ऽन्यत्र वेश्मारम्भ समाचरेत् । य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥ गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गी यथाक्रमम् । सिंहे सिंहासनस्थानं व्याघ्रेस्याद्दारमन्दिरम् ॥ २५९ ॥ गजे यात्रालयं कुर्य्यात् मृगे केलि-निकेतनम् | भ्रमरेऽन्तःपुरं (२) कुय्यात् क्रमेण पृथिवीपतेः ॥ तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२ ॥ तत्र भविष्योत्तरे,
मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् ।
द्वादशैव गृहान् बच्ये तेषां लक्षणमग्रतः ॥ २५३ ॥ सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता || विनोदच विलासश्च विजयो विमलस्तथा ॥ वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥
३७
(१) राजा दण्डतो इति (क) पुस्तक पाठः । (२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः । (३) तेन मध्यमेन इति (ख) पुस्तक पाठः । मध्यममेव इति (ग) पुस्तक पाठः ।
99
(४) रङ्ग इति (ग) पुस्तक पाठः ।