________________
युक्तिकल्मतरोअथ तव कालनिर्णयः । वैशाख-श्रावणाषाढ़-मार्गफाला न कार्तिकाः । सुप्रशस्ता रहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ २१२ ॥ शुक्लपक्षे भवेत् सौख्य कणे तस्करतोभयम् (२४)। आदित्य भौमवजन्तु सर्वे वारा: शुभावहाः ॥ २१३ ॥ तथान्यत्र,-- पूर्णिमाद्यष्टमी यावत् पूर्वस्यां वर्जयेत् ग्यहम् । उत्तरस्यां न कुर्वोत नवम्यादि-चतुर्दशीम् ॥ २१४ ॥ अमावस्याष्टमी यावत् पश्चिमस्यां विवर्जयेत् । नवम्यादि तथायाम्यां यावच्छ क्ला चतुर्दशीम् ॥ २१५ ॥ वनव्याघातशूले च व्यतीपातातिगण्डयोः । विस्कुम्भ गण्डयोश्चव रहारम्भ न कारयेत् ॥ २१६ ॥
आदित्यदयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तरा:, रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः । सौम्यानां दिवसेऽथ (२५) पापरहिते योगेविरिक्त तिथौ ; विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कायं शुभम् ॥२१७॥ मत्स्यपुराणेऽपि,चन्द्रादित्यवलं लब्धा लग्नं शुभ-निरीक्षणम् । स्तम्भोब्रह्मादिकर्तव्यो (२६) ऽन्यत्रतु विवर्जयेत् ॥ २१८ ॥
(२४) कृष्ठे च भरतो इति (क) पुस्तक पाठः । (२५) प्राण इति (ग) पुस्तक पाठः । (२६) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः ।
* एतद्विषये प्रमाणान्तराणि--भीजराजीय राजभात ण्ड, ज्योतिस्तत्त्वे, वराहमिहिरौये, शिल्पसन्दर्भ चानुसन्ध यानि ।