________________
वास्तुयुक्तिः ।
अश्विनी रोहिणी मूल-मुत्तरात्रयमैन्दवम् (३) । स्वातिर्हस्तानुराधाच वास्तु कर्माणि शस्यते ॥ २१६ ॥
तथा च-
विभिस्त्रिभिर्वेश्मनि कत्तिकाद्यैः. अशेष-पुत्राप्ति धनानि शोका: ( ४ ) ।
शत्रोर्भयं राजभयञ्च मृत्यु: ; सुखं प्रवासश्च नवप्रभेदाः ॥ २२० ॥ नाशं दिशन्तिमकरालिकुलिर- लग्ने, मेषे घ (ध) धनुषि कर्मसु दीर्घसूत्रम् । कन्याभषेमिथुनके ध्रुवमर्थलाभो :ज्योतिर्व्विद: कलस - 1 -सिंह- वृषेषु वृद्धिम् ॥ २२१ ॥ लग्न के (५) वज्रपातः कोषहानिच शीतगौ । मृत्यर्व्वसुन्धरा-पुत्रे चन्द्रजे शुभसम्पदः ॥ २२२ ॥ जीवे धमार्थकामाच सुतोत्पत्तिस्तु भार्गवे । शनैश्वरे तु दारिद्रा राहौ वस्त्र (६) प्रवर्धते (७) ॥ २२३ ॥
1
अथ प्रवेश - कालः ।
दश-केन्द्रगैर्निधनगैः पापै स्त्रिषष्ठायगैः, स्लग्न केन्द्रगतेऽथवा सुरगुरौ देतेय पूज्येऽपिवा ।
(३) भैन्दवम् इति (क) पुस्तक पाठः । ( 8 ) लोकाः इति (ख) पुस्तक पाठः । (५) लग्नेऽर्कः इति (ग) पुस्तक पाठः । ( () वस्तु इति (ख): पुस्तक पाठः । (७) प्रवर्त्तते इति (ख) पुस्तक पाठः ।