________________
युक्तिकल्पतरौ -
अन्येषां यथा, - यदाह वास्तुकुण्डल्याम्स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् । क्षेमं भयङ्करो भव्यः शोकक्कविजयः शुचिः । वंशपापकारी च विकारी शोभनः शिवः ॥ १९८ ॥ कुणपः कामदो धूम्रो (१२) धौम्यो धनहरस्तथा । धनदः सुखक (हृ)चेति वाट्यो ( १३ ) ष्टादशकीर्त्तिताः ॥ १६८ ॥ तदुयथा,
आयाम परिणाहाभ्यां योऽङ्क (१४) पिण्डोऽभि जायते । उनविंश-हृते (१५) भागे शेषेणैता यथाक्रमम् ॥ २०० ॥ क्षेमे सर्व्वीर्थ-सिद्धिः स्यात् (१६) भयकारि-भयङ्करः । भव्यो भोगं प्रकुरुते शोककृत् (१७) वन्धुनाशनम् ॥ २०१ ॥ विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् ।
वंशक्कृत् कुरुते वंशं पापकारी कुलापहः ॥ २०२ ॥ विकारी कुरुते दुःखं शोभनः शुभमावहेत् । शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ २०३॥ कामदोऽभोष्ट-लाभः स्याद धूम्रो दहति सर्व्वशः । धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ २०४ ॥
-
( १२ ) धृष्टो वै इति (ख) पुस्तक पाठ: । (१३) वाटयाऽष्टादश इति (ग) पुस्तक पाठः । ( १४ ) योऽचः इति (ग) पुस्तक पाठः । (१५) कृते इति (ख) पुस्तक पाठः । (१६) मंमित्रिः इति (ख) पुस्तक पाठः । ( १७ ) शोकहत् इति (ग) पुस्तक पाठः ।