________________
नौतियुक्तिः।
एतयोरपि पूर्ववद व्याख्यानम् । राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते । तस्यापि पूर्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १८१ ।
अथ तत्र गुणदोषौ,परनिर्मित-वास्तुस्थो न तिष्ठति चिरं नृपः । न सुखाय न धमाय तत्तस्य भुवि जायते ॥ १८२ ॥ एवमन्यत्रापि,राजान्य (८) वीर्य-प्रत्याशी पर वास्तुकत-स्थितिः । सुखाय नो भवेन्नृणां यथा पर-गृहे ग्रहः ॥ १८३ ॥ यः खनिर्मित-वास्तुस्थो निज-लग्नादि-संयुतः । विचारित पुरो-राजा सुचिरं सुखमनते ॥ १८ ॥ अन्यत्रापि,राजा खवाहु-वौर्यायः निजनिर्मित-वास्तु भाक् । स चिरं तनुते सौख्यं स्वग्रहस्थी ग्रहो यथा ॥ १८५ ।
अथ वास्त्वारम्भ-कालः । वर्षान्ते () ऽभ्युदिते शुक्र केन्द्रे सुरगुरौ शुभे। वास्तु-कर्म समारम्भः शुक्रचन्द्रार्क-भूमिज ॥ १८६ । गृहयुक्तौ (१०) यः समयः कर्त्तव्यस्तत्र वै शुभे। वास्त्वारम्भः कार्य: शुभसम्पत्ति-कामिना राज्ञा ॥ १८७ ॥ इति श्री भोजराजीये वास्तुयुक्तौ (११) वास्तूहेशः ।
(७) तदेशमिति (क) पुस्तक पाठः । (८) राजन्य-वीर्य' इति (क) पुस्तक पाठः। (2) वर्षास्ते इति (ख) पुस्तक पाठः । (१०) रहयुक्तौ इति (ख) पुस्तक पाठः । (११) वस्तुहेशः इति (ख) पुस्तक पाठः ।