________________
युक्तिकल्पतरो
अथ नगर निमाणादि-कालः। . स्थिरराशि-गते भानौ चन्द्रे च स्थिर-भोदये * । शुद्धे काले दिने चैव नगरं कारयेत् नृपः ॥ १४४ ॥
अथास्य लक्षणम् ।
भविष्योत्तरे,दीर्घ वा चतुरस्र वा नगरं कारयेबृपः । तवयं (१) वहुलम्बापि कदाचिदपि कारयेत् ॥ १४५ ॥ दीर्घः पादैक प्रसरः चतुरस्रः समोचितः । त्रिभिः पादैः समं वासं वत्तुलं वलयाकृतिः ॥ १४६ ॥ दीर्घ स्याहीर्घकालाय मुखसम्पत्ति हेतवे। चतुरस्र चतुर्वर्ग(२) फलाय पृथिवी-पतेः ॥ १४७ ॥
(१) तद्रख इति (ख) पुस्तक पाठः । (२) चतुर्बन्ध (अ) इति चतुर्वद्ध इति (ख)-(ग) पुस्तक पाठः ।
"आदित्ये युक्कर्कि-क्रियमिथुनघटालिस्थिते सत्समतः, केन्द्राष्टान्त्य रसौम्यस्त्रिभवरिपुगतैः खस्थिरग्राम्यलग्ने । भेषु स्वाराड् विशाखादिति फणिदहनोग्रेतरष्वक शुद्धौ ; वेश्मारम्भः शुभः स्यात् सुतिथि शुभबिधौ भौमसूर्येतराहे ॥"
अत्र वेश्म इत्युपलक्षणम्, तेन सवंबास्तुकार्य वोध्यम् । -इत्यादीनि ज्यौतिषीय शिल्पशास्त्रीय प्रमाणानि मुहूर्त्तचिन्तामणि-वृहत्पराशर-मूल स्तम्भशास्त्र कुमारवास्तुशास्त्र पराशरीय शिल्पशास्त्र-ज्योतिस्तत्त्व-शुक्रनीति-वराहमिहिरीयादिषु च सन्दर्भेष अनुसन्धेयानि ।