________________
युक्तिकल्पतरौउच्छिद्यमानो बलिना आश्रयेहलवत्तरम् । विनीतवत्तत्र कालं नयेदिति मतिध्रुवा(म्) ॥ ८३ ॥ ददहलं वा कोषं वा भूमिं वा भूतिसम्भवाम् । आश्रयेदभियोक्तारं समाश्रय गुणान्वितम् ॥ ८४ ॥ वोत-व्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति महाराजमपाम्पतिमिवापगाः ॥ ५ ॥ अव्यवसायिनमलसं देवपरं साहसाच्च परिहीनम् । प्रमदेववृद्धपति नेच्छत्युपग्रहोतुं कमला I ८६ ॥ उत्साहाच्छ्रियमाप्नोति उत्साहाच्च महद् यशः । तस्मामोपधा (१) शुद्ध मुत्साहं नित्यमाचरेत् ॥ १७ ॥ अमर्ष(श)श्चैव शौर्यञ्च शीघ्रकारित्वमेवच । तत्कर्मणि प्रवीणत्व मित्युत्साह-गुणामताः ॥ १८ ॥ व्यसनस्यागमहार मनुसाहो महीपतेः । सामदान दण्डभेदा इत्युपाय-चतुष्टयम् ॥ ८ ॥ साम-सिद्धं प्रशंसन्ति * सर्वतश्च विपश्चितः । स्रवविवामृतं वाचा सामोपायं समाचरेत् ॥ १० ॥ लुब्धं क्षीणं प्रदानेन सत्कृत्यवशमानयेत् । भेदं कुर्वोत यत्नेन मल्लामात्यपुरोधसाम् ॥ १०१ ॥ यथा बलं प्रकुर्चीत - दुष्ट-दण्डनिपातनम् ॥ १०२ ॥
(१) सौंपरि(रों) शुद्धः इति (ख) पुस्तक पाठः ।
* चतसृषु नीतिसु साम्नः प्रधानत्वादेव प्रसंशन्ति विपश्चितः । । दुष्टस्य दमनं शिष्टस्य परिपालनच्च बलानुसारण कर्तव्यमिति ।