________________
नौतियुक्तिः ।
अथ दण्डः ।
दण्डः संरक्षते धर्म्म * तथैवार्थं विधानतः । कामं संरक्षते यस्मात्रिवर्गो + दण्ड उच्यते ॥ १०३ ॥ राजदण्ड भयाल्लोकाः पापाः पापं न कुर्व्वते । यमदण्ड भयादेके परलोक भयात्तथा ॥ १०४ ॥ दण्डवेभवेल्लोके ना विभजन् साध्वसाधु वा । शूले§मस्यानिवाऽपच्यन् दुर्बलान् वलवत्तराः ॥ १०५ ॥ अपराधेषु भूपालो दण्डं कुर्य्याद् यथाविधि । अन्यथाकरणात्तस्य राजा भवति किल्विषौ ॥ १०६ ॥ विरुद्दमपि जल्पन्तो दूता दण्ड्या न भूभृता । दूत हन्ता तु नरकमाविशेत् सचिवैः सह ॥ १०७ ॥ विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति ।
विपक्ष वचनाद्दण्डः स्वामिनं नरकं नयेत् ॥ १०८ ॥
१.५
* दमनार्हाणां दण्ड एव समुचितः, तदेवोक्तं भगवता - " दण्डोदमयतामस्मि" इति । + त्रिवर्ग : - धमार्थकामा इति ।
+ विषु राजदण्ड यमदण्ड परलोक शासनेषु लोकानां राजदण्ड भयं सदपि प्रत्यचत्वात् तस्यावश्यम्भावित्व' नास्ति । परलोकभयं
यमदण्डभयञ्चावश्यम्भावित्वात्तयोलोकमाचे
परिव्याप्तिः ।
" प्रजाः संरचितुं सम्यक् दण्डनीतिः समाहितः” । महाभाः, शा:, पः, ७० । § अव तुलादीत्यादि प्रामादिकः पाठस्त्रिषु आदर्श पुस्तकेषु दृश्यते । यतो मानवधर्मशास्त्रीय-सप्तमाध्यायस्य विंशति श्लोक तद्भाष्य टीकाविरोधात् । तथाहि
"शूले मत्स्या निवा-पक्ष्यन् दुर्व्वलान् वलवत्तराः” । "जले मत्स्यानिवा भक्ष्यन् दुर्व्वलान् वलवत्तराः । "
इति महाभारते शान्तिपर्व्वणि ६७ अ:, ६० । अस्ति योगवाशिष्ठ मात्स्य न्यायः, तदेव लौकिक न्यायसंग्रहे । रामायणेऽयोध्याकाण्डऽपि ६० सः, २२ श्रोः । " बभुवाराजकं तीक्ष्णं मात्स्यन्याय - कदर्थितम् । "