________________
नौतियुक्तिः । अन्यश्च (२७) विजिगीषोश्च विग्रहे होयमानयोः । सन्धाय यदवस्थानं सन्धा (२८) यासनमुच्यते ॥ ८७ ॥ उदासीने मध्यमे वा समाने प्रतिशङ्कया। एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ ८८॥ सर्वेषां प्रीतिजननं निजराष्ट्रस्य लक्षणम् । एतत् प्रोत्यासनं नाम सासन-महत्तरम् ॥ ८ ॥
अथ वैधम् । वलिनोहिषतोमध्ये वाचा मौनं (२८) समर्पयेत् । बैधीभावेन वर्तेत * काकाक्षिवदलक्षितः । ८० ॥ यापयेहक्रमास्थाय सविकष्टतरं तयोः । उभयोरपि संयापे सेवेत बलवत्तरम् ॥ २१ ॥
-
अथाश्रयः ।
प्रस्थितौ यदि कल्याणं भवेत् संश्रयणन्तथा। भवति श्रेयसे राज्ञां विपरीतं न कहिंचित् । ८२ ॥
(२७) अन्यस्य इति (क) पुस्तक पाठः।
-अयं पाठः समीचीनः। (२८) सन्ध आसनं इति (ख) पुस्तक पाठः। .. (२८) वाचात्मानं इति (ख) पुस्तक पाठः ।
* काकाचिन्यायः-यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य सम्पादयति किम्बा कैकर व झटित्ये व लक्ष्यालक्ष्यं उभयं पश्यति तत् है धीभावे राज्ञाऽवस्थातव्यम् । .