________________
नौतियुक्तिः ।
आत्मोदये विटीयात् चोभो नाम (थ) बले यदि । व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥ ५७ ॥ स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रकोविदैः । मृता (६) युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ ५८ ॥ रथयुद्धं समे देशे विषमे हस्ति-सङ्गरः । अश्वयुद्धं मरौ देशे पत्ति-युद्धञ्च दुर्गमे ॥ ५८ ॥ अत्यये सव्र्व्वयुद्धं स्यानौकायुद्धं जलप्लुते । संहत्य योधयेदन्यान् कामं विस्तारयेद्दइन् ॥ ६० ॥ सूचौमुखमनीकं (७) स्यादल्पं हि वहुभिः सह । अपि पञ्चाशत: (८) शूरा निघ्नन्ति परवाहिनीम् ॥ ६१ ॥ येsपि वा पञ्च षट् सप्त संहिता: ( 2 ) कृतनिश्चयाः ।
अथ चरः ।
विवस्त्रानिव तेजोभि नभश्वानिव वेगतः ।
राजा चरेज्जगत् सव्र्व्वं प्राप्न यालोकसम्मतोः (१०) ॥ ६२ ॥ तर्केङ्गितज्ज्ञ स्मृतिमान् खीयभाव- प्रकाशकः । क्लेशायाससहोदचः सर्व्वत्र भयवर्जितः ॥ ६३ ॥
(६) कता (हता) इति (ग) पुस्तक पाठः । (७) अत्र सूचीमुखमनीकं यत्तद्ददवस्थित वाहिनीत्यर्थः । (८) आदि पञ्चाशतः इति (ग) पुस्तक पाठः । (2) सहिता इति (क ) - (ख) पुस्तक पाठः । (१०) सम्मतैः इति (क ) - (ख) पुस्तक पाठः ।
j