________________
युक्तिकल्पतरोसुभक्तो (११) राजसु तथा कार्याणां प्रतिपत्तिमान् । नृपो निहन्याच्चारण परराष्ट्र विचक्षणः ॥ ६४ ॥ काल(१२)ज्ञान्मन्त्र कुशलान् साम्बार चिकिसकान् । तथान्यानपि युञ्जोत समर्थान् शुद्धचेतसः ॥ ६५ ॥ सक्रुद्धांश्च (१३) तथा लुब्धान् दृष्टार्था तत्त्व भाषिण: (१४)। पाषण्डिन स्तापसादीन् परराष्ट्वे नियोजयेत् ॥ ६६ ॥ खदेश परदेशज्ञान् सुशोलान् सुविचक्षणान् । वार्ताहान् बहू चैव चराणां विनियोजयेत् ॥ ६७ ॥ नैकस्य वचने राजा चारस्य-प्रत्ययं वहेत् । हयोः सम्बन्ध माज्ञाय तद्युक्त कार्यमारभेत् ॥ ६८ ॥ तस्माद्राजा प्रयुञ्जीत चरान् बहुमु(स)खान् बहून् । नौरता वामना (१५) कुञा स्तद्दिधा ये च कारवः ॥ ६॥ भिक्षुक्यश्चारणा दास्यो मालाकार्य: (१६) कलाविदः । अन्तःपुरगतां वात्ती निर्हरेयु रलक्षिताम् (न्) ॥ ७० ॥ प्रकाशश्चाप्रकाशश्च चरस्तु विविधो मतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥ ७१ ॥
(११) सभक्तो (भक्ती) इति (ख) पुस्तक पाठः । (१२) वालज्ञान् (लभ्यः) (ग) पुस्तक पाठः । (१३) संक्रुद्धान् (क) (ग) पुस्तक पाठः । (१४) अतत्त्वभाषिणः (क)-(ग) पुस्तक पाठः । (१५) वासना इति (क) पुस्तक पाठः।
नीरताः क्लैव्य गता, निर्गतं रतं रमणं यस्मादिति वा । भिक्षुक्यः
परिवाजिकाः । (१६) मालाकाराः इति (ग) पुस्तक पाठः ।