________________
युक्तिकल्पतरोवृधः (१) कुलोगतः शक्तः पिटपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ २३ ॥ हयशिक्षा विधानज्ञ * स्तञ्चिकित्सित-पारगः । अखाध्यक्षो महीभत्तः शुभक्तश्च प्रशस्यते ॥ २४ ॥ गजलक्षण-जातिज्ञ , स्तच्चिकित्सित पारगः । निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्थते ॥ २५ ॥ अस्त्र (२) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः । शुषः कुलोद्भवो विद्वान् धर्मभीरु रभीस्तथा ॥ २६ ॥ युद्धाध्यक्षः स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (३)। अध्यक्षान् विविधान् कुर्यु स्तत्र तत्र विपश्चित: ॥ २७ ॥
(१) बुद्धः इति (ख) पुस्तक पाठः । (२) अस्त्र शस्त्रेषु इति (ख) पुस्तक पाठः।-अत्रास्त्रशास्त्राणि धनु
वैद वहच्छाङ्गधर युद्धजयाणवादीनि । (३) कार्यकत् इति (ख) पुस्तक पाठः ।
* शालिहोत्रीय नकुलौय-जयगीयानि ज्ञ यानि । + गजायुर्बेदशास्त्रे गजानां लक्षण-चिकित्मा-पालन-वईनानि निर्दिष्टानि सन्ति ।
"कुलीन: शीलसम्पन्नी धनुर्विद्याविशारदः । हस्तिशिक्षाश्वशिक्षास् कुशलः लक्षण-भौषण: ॥ निमित्ते-शकुन ज्ञाने वेत्ता चैव चिकित्सिते । व्यूहतत्त्वविधानज्ञ: फला सारविधानवित् ॥ राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा।''
(मात्स्ये-२१५ प:) कविकल्पलतायाम्
"सेनापतिर्जितावास: स्वामिभक्तः सधौरभी।' अभ्यासी वाहने शस्त्र शास्त्रे च विजयी रणे ॥" "सेनाभ्य: सेनानिभ्यश्च वो नमः” ( शुक्लयजुः सम्)