________________
नौतियुक्तिः। अप्रमत्तानलुब्धांश्च विरोषांश्चैव राजसु। - राज्ञामाज्ञानुरूपेण तत्तत्कर्म प्रकुर्वताम् ॥ २८॥ प्रसादञ्च महीपालः कुर्या कार्यानुरूपकम्। सर्वे सेवितुमिच्छन्ति महोपालं धनाशया ॥ २८ ॥ खत(४)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * । कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ ३० ॥ द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः । धर्माहेतोः सुखार्थाय भृत्यानां भरणाय च ॥ ३१ ॥ प्रापदर्थञ्च संरक्ष्यः कोषः कोषवता सदा। धनात् कुलं प्रभवति धनाधर्मः प्रवर्तते (५) ॥ ३२ ॥ . नाधनस्य भवेधर्मः कामांश्चैव कथञ्चन । अधमान्न धनं कुर्यात्तवनं गृह्यते परैः॥ ३३॥ खयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव । तादात्मिको मूलहरः कदर्य स्त्रिविधोऽर्चकः ? ॥ ३४ ॥ उत्पनार्थ-व्ययकरो यो भविष्यद्धनाशया । स तादात्मिक आख्यात: कल्याणो तस्य नायतिः ॥ ३५ ॥ 'यः पित्राद्यजितं वित्त मन्यायन तु भक्षयेत् । स मूलहर पाख्यात स्तदुदर्कोऽपि चाशुभः ॥ २६ ॥
(४) सुतास्ते तु इति (ख) पुस्तक पाठः। (५) प्रवईते इति (ख) पुस्तक पाठः।
-
-
.
.
-
-
* धनलिप्सया सर्वे साधवो दुर्जना वा सुधियो वा महोपालं पाश्रयन्ति, परं राजीहि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्जननिश्चये रामोऽनिष्टञ्च स्यादिति।