________________
१८४
युक्तिकल्पतरोशिशिरे तैल पलाष्टकं कटिस्थं , दिनसप्तावधि पाययेत् तुरङ्गान् । तदनु प्रातर्भोजयेद् याश्च ;
यवयवसांश्च तथामृतखरूपान् ॥ २६ ॥ यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते । प्रकत्वापि क्रियाः सर्वाः स हयः सुखमृच्छति ॥ २७ ॥ वसन्ते संप्राप्ते निजसुखवशाहाहय हयान्, वृतं तैलं शस्त सकलविधिरुतोऽपि च मतः । पयो दद्यादी सलवणमथो वाहनविधि- ; . भृशं योज्यस्नेनाब्दमपि सुखमिच्छेदयवरः ॥ २८ ॥ वसन्तसमये योऽश्वः स्थाने तिष्ठति वन्धने । तस्योसाह: प्रणश्येत सालस्यं जायते वपुः ॥ २८ ॥ प्रोमे वृतं चतजमोक्षणधर्मशान्तिं, सुच्छायवन्धन-विमहन-शीततोयम् । दूर्वा टणं लघु च कोमलमन्यदेव ; यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ ३० ॥
भोजेन तु हयलक्षणमन्यथोक्ताम् । तयथा,
निग्धाङ्गो लघुतरलोमकस्तु पुच्छो, दोर्णस्यास्थिनयनकेश पृष्ठवंशः (१) । रक्तोष्ठः पृथुलनितम्बमारर(व)क्षा ; राजा: भवति तुरङ्गमः प्रशस्यः ॥ ३१ ॥
(१) सिग्घा......कर्ण पुच्छोदीर्घास्य त्रिनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।