________________
१८३
अश्वयुक्तिः । पैत्तिकं कालिकं विद्याहाते विद्यात् कफेऽनिलम् । पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवञ्च यत् ॥ २१ ॥
इति हय रक्त-मोक्षणविधिः ।
अथ हय-ऋतुचर्या। न प्राज्ञो वाहयेदवान् प्रावटकाले कथञ्चन । यदीच्छेदमृतं (१) तस्य वाहनं दशमासिकम् ॥ २२ ॥
कूपोदकं कटुकतैल-निवात(ह)गेहं, शस्तं पलाईलवणं दिवसान्तरेण । तवान्यथा सति सुखामयवीबहानिमुख्यलेविरहितस्तु वयो (२) विनश्येत् ॥ २३ ॥ शरदि गुड़टतं (३) पयः प्रशस्तं, शरदि सिताष्टपल प्रमाणमच्छम् । मधुरमथ जलं सरोवरोत्य; वृतयुतनौल मुकुष्टकाच (४) भोज्याः ॥ २४ ॥ हेमन्तकाले त तैलमाषा(षा:), निर्वातसंस्था च पयो यथेच्छम् । शनैः शनैर्वाहनकर्माकुर्य्याद यवांश्च पत्ता (५) वितरेद विधिनः । २५ ॥
(१) यदीच्छेदग्रतः इति (क) पुस्तक पाठः । (२) रगो इति (ख) पुस्तक पाठः । (३) युतं इति (ग) पुस्तक पाठः । (४) मुकुन्दकाश्च इति (घ) पुस्तक पाठः । (५) मुक्ता इति (च) पुस्तक पाठः ।