________________
१२५
अश्वयुक्तिः । नाभि(भेरा)मारभ्य देहस्तु द्विधा पूर्वापरक्रमात् । पूर्वकायस्थिता रताः शुभाय हय-संस्थिताः ३२ ॥ अधः काये स्थिता रताः अधमत्व-प्रकाशकाः । शक्तीनां वैपरीत्येन प्रशस्त-फलमादिशेत् ॥ ३३ ॥ वात्स्यस्तु ,ब्रह्मादि-जादिभेदेन हयजातिश्चतुर्विधा ॥ ३४ ॥ तद्यथा,
ये शुक्लाः सुविमलपुष्पगन्धका वा, शुद्धाङ्गाः सणसदुष्ण भोजिनो वा । अक्रुद्धाः समरगता भृशञ्च पुष्टास्ते विप्राः ; क्षितिपति-वाहनेऽति योग्याः ॥ ३५ ॥ ये रताः पद्गुरुगन्धयोऽहता वा, संरुष्टा वहुतरभोजिनो बलाढ्याः । अश्रान्ता: सकलगुणग्रहाः प्रवीणाः ;
विज्ञेया विधिकरजात-जातयस्ते ॥ ३६ ॥ ये पीताः खलु तगन्धयोऽपि ये बा ।
येऽक्रवाः कथमपि गन्धरोषशालिनो ये ॥ ३० ॥ वडा वा वहुतर नाद घोषणा वा विज्ञेया नृपवर वैश्यजातयस्ते । ये कृष्णाः सरुषामगन्धयोऽपि ये वा अन्यथा वहुतरताड़नैरपोमे ॥३८॥
क्षीणाङ्गा लघुतनवोऽपि वेशहीनास्ते । शूद्राः क्षितिपतिना भृशं विहेयाः । एतत्त एकैकमेव लक्षणं न सामुदायिकम् ॥ ३८ ॥ लक्षणहयसम्बन्धात् द्विजातिः स्यात् तुरङ्गमः । चतुर्लक्षणयुक्तस्तु दूरे त्याज्यो हयाधमः ॥ ४० ॥