________________
.
युक्तिकल्पतरौ -
अथ हय क्रियाकालः ।
स्ववरुण गुरुपार्श्वास्येषु भौमार्कवार, स्वतिथि करणताराचन्द्र योगोदयेषु । शुभमिह इयः काष्ठ ं (१) कार्यमार्येण बुड्वा ; न शनिरविकुजानां वासरे नोग्रतारे ॥ १ ॥
इति हयक्रियाकाल: ।
अथ हयारोहण ज्ञानम् । चलकिशलयपादः कर्णमध्येक दृष्टि-, र्नचलति कटिदेशः वासने संस्थितो यः । हयहृदयगतिज्ञः स्थानं दण्डावताप: (२) स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥ मेरुः स्थिरो यस्य चलौ च पादौ,
;
त्रिकोनतं संहतमासनञ्च ।
स वाजिवाहः प्रथितः पृथिव्यां ;
शेषा नरा भारकरा हयानाम् ॥ ३ ॥
इति हयारोहण ज्ञानम् ।
ताड़नविधिः ।
अथ रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् । भोते वक्षःस्थलं हन्यादक्त चोन्मार्गगामिनः ॥ ४ ॥
(१) काष्ठं इति (क) पुस्तक पाठः । (२) स्थानदण्डावपाती इति (ख) पुस्तक पाठः । (३) कण्ठ इति ( ग ) पुस्तक पाठः ।