________________
अश्वयुक्तिः ।
११
कुपिते पुच्छसंस्थानं भ्रान्ते जानुहयं तथा । सबस्या(स्य)प्राप्तदण्डस्य दण्ड मेकं निपातयेत् ॥ ५ ॥ यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् । अस्थानदण्डपाताञ्च वहुदोषः प्रजायते । तस्मानिरीक्ष्य कर्तव्य हये दण्डनिपातनम् ॥ ६ ॥
इति हय ताड़नविधिः ।
अथ हयधावनविधिः । हस्तैश्चतुविशतिभिईनुद्दे ण्ड उदाहृतः । अक्ष्णो निमेषणान्यष्टौ मात्रा प्रोक्ता वित्रक्षण: ॥ ७ ॥ मात्रा षोड़शनाखो यो धावति धनुःशतम् । तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१)॥ ८॥ विंशत्या मध्यमो जे यो ह्यतोऽन्ये चाधमा मताः । नभस्याश्वयुजे मासि नैवाखान् वाहयेन्नृपः ॥ ८ ॥ वजाग्नि-सदृशं पित्तं श्रमात् कुप्यति वाजिनाम् । कार्येण महता वापि योज्यो मासि तु कार्तिके ॥ १० ॥ हेमन्त शिशिर योगो वसन्ते च यदृच्छया । वालं वृद्धं कशं रुग्नं दत्तने हं बहहलिम् (२)।। पूर्णातिरिता कोष्ठञ्च गुबिणौञ्च न वाहयेत् ॥ ११ ॥
इति हयधावनविधिः ।
(१) महाजरम् इति (क) पुस्तक पाठः । (२) वालो वृद्धः कशो रोगी दण्डन हो वहद्दलिः इति (ख) पुस्तक
पाठः।