________________
१८८
युक्तिकपतरोतत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु । बयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ २ ॥ बयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) । मुषलो नाम पापोऽयं दूर त्याज्यो हयाधमः ॥ ८३ ॥ विकटो विषमो यस्य दशनः स करालकः । करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥ कृष्णतालुहयो नाशं कुरुते नात्र संशयः । विषदन्तो भवेद्यस्तु कष्णतालु नै दुष्यते ॥ ८५ ॥ कर्णान्ते चूलिकान्ते च शृङ्गवलक्ष्यते यदि । स शृङ्गो कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥ एकाण्डोऽजातकाण्डश्च होनाण्डोऽभ्यधिकाण्डकः । घण्टो (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥
. इत्यश्वस्य दोषाः।
अथावस्यारिष्टम्। सुस्थस्यापि च नेत्रान्ते स्यातां नोले च वाजिनः । तथैव तस्य जानीयात् भवेन्मृत्युबिवार्षिकी ॥ ८८ ॥ नौलपोते च नेत्रान्ते त्रिभिर्मासर्वपुःक्षयः । यस्य नेत्रान्तर रेखा वहुवर्णा प्रजायते ॥ ८८ ॥ विशेषाहाजिनो ज्ञेयं तस्यायुः पच्चमासिकम् । जिह्वायां जायते विन्दुरकस्मादयदिवाजिनः ॥ ८ ॥ मासैकं जीवितं तत्र पोते मासहयं तथा । रक्ते मृत्युस्विभिर्मासैश्चतुर्भिश्च विचित्रके ॥ ८१ ॥
(१) विजायते इति (क) पुस्तक पाठः । (२) वण्टी इति (ख) पुस्तक पाठः ।