________________
अश्वक्तिः । चत्वारो यस्य वै पादाः परस्पर विवर्णकाः । स त्याज्यो मुषलो नाम्ना मुनिभिः कुलनाशनः ॥ ७० ॥ दुर्लक्ष्म वाजिनं जह्याद् यदीच्छेत् शाखतीं श्रियम् । यस्तु(स्य) वर्णविभेदेन ज्ञायते रोमसम्भवात् ॥ ७१ ॥ पुष्पाख्यः स परित्याज्य: सर्बवाजि-भयावहः । यस्यावशेष वर्णन छाद्यते च प्रधानत: ॥ ७२ ॥ विद्धि गच्छतः सोऽश्वः कुरुते हयसंक्षयम् ॥ ७३ ॥ इति स्कन्धे गले चैव कटिदेश तथैव च । नाभौ कुक्षौ च पावांश (१) मध्यमः स प्रकीर्तितः ॥ ७४ ॥ एको वामकपोलस्थो यस्यावतः प्रदृश्यते । चर्वणी स हयस्त्याज्य: कुरुते स्वामिनाशनम् ॥ ७५ ॥ वामगण्डाश्रयावतः प्रकरोति धनक्षयम् । कक्षान्ते यस्य चावत: स मृत्त्यं कुरुते विभोः ॥ ७६ ॥ क्लेशं जानुगतावत: प्रवासं कुरुतेऽथ वा । वाजौमढ़गतावतॊ वजनौयो महोभुजा ॥ ७७ ॥ त्रिवलि प्रभवावर्त स्त्रिवर्गस्य प्रणाशकः । पृष्ठवंशे यदावत एकः संपरिलक्ष्यते। धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ ७० ॥ गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त कास्त्रयः । स कतान्तस्तु रूपेण वर्जतोयस्तुरङ्गमः ॥ ७८ ॥ अधोर्खञ्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् । यमदूतः स विज्ञ यो वजनौयस्तुरङ्गमः ॥ ८० ॥ होनदन्तोऽधिकश्चैव करालो कष्णतालुकः ।
मुषली च तथा शृङ्गो षड़ेते घातकाः स्म ता: ॥ ८१ ॥ (१) पार्था से इति (क) पुस्तक पाठः ।