________________
१८६
युक्तिकल्पतरो
अथाश्वस्य आवर्तगुणाः । रोम्नां (१) भ्रमिवदावृत्तिरावर्त इति गद्यते । षड़विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ ६१ ॥ नासिकाग्रे ललाटाग्रे शङ्ख कण्ठे च मस्तके । आवर्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ ६२ ॥ ललाटे यस्य चावतॊ हितोयस्तु कुकुन्दरे । मस्तके च टतोयस्तु स विज्ञेयो हयोत्तमः ॥ ६३ ॥ द(ग)ण्डावतॊ भवेदयस्य वाजिनो दक्षिणाश्रयः । स करोति महासौख्य स्वामिनः शिरसंजित: (२) ॥ ६४ ॥ कर्णमूले यदावतः स्तनमध्ये तथापरः । विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ ६५ ॥ . स्कन्धपा यदावर्त्तः स भवेत् सुखकारकः । नासामध्ये यदावर्त एको वा यदि वा त्रयः ॥ ६६ ॥ चक्रवत्तॊ स विज्ञेयो वाजो भूपाल-भूषितः । कण्ठे यस्य महावत्तः प्रोक्तश्चिन्तामणि: शुभः ॥ ६७ ॥ रोम्नां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते। यत्रावर्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (३) ॥ ६८ ॥
इति आवर्त गुणाः ।
अथावस्य दोषाः। चत्वारोऽप्यसिताः पादा: सर्वश्खेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ६ ॥ (१) व्योम्नां इति (क) पुस्तकपाठः (२) शिरःसङ्गितः इति (ख) पुस्तकपाठः । (३) शुभा भवेत् इति (ग) पुस्तकपाठः ।