________________
१८५
अश्वयुक्तिः। अथ अखस्य शुभलक्षणानि। दीर्घाः शुष्का विशालास्था ये भवन्ति तुरङ्गमाः । ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्मणि ॥ ५२ ॥
आस्यं भुजौ चापि ककाटिका च, दोघं चतुष्क तुरगस्य शस्तम् । तथोबते प्राणपुटे ललाटे;
शफश्च (१) वाजिप्रवरस्य वोध्यः ॥ ५३ ॥ श्रोत्रे च मणिवन्धश्च पुच्छं कोष्ठ लघूत्तमम् । पीताङ्गः श्व तपादो यो यश्च स्यात् सितलोचन: (२) ॥ ५४ ॥ चक्रवाकः स विज्ञेयो राजाह: प्रियसत्तमः। . मुखे चन्द्रकसंवोत: पक्वजम्बूफलाकृतिः ॥ ५५ ॥ खेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः (३)। सर्बश्वतो हयो यस्तु श्यामैकश्रवणो भवेत् ॥ ५ ॥ स वाजौ वाजिमेधार्हः श्यामकर्णः सुदुर्लभः । यस्य पादाः सिताः सर्वे पुच्छो मुष्को मुखं तथा ॥ ५७ ॥ मूईजास्तु सिता यस्य तं विद्यादष्टमङ्गलम् । यस्य पादाः सिताः सर्वे चन्द्रकञ्च ललाटके ॥ ५८ ॥ कल्याणपञ्चकः प्रोतो भत्त: कल्याण-कारकः । विमिश्रवर्णकाः सर्वे प्रशस्ता वाजिनो मताः ॥ ५ ॥ यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान् करोति स वहन् हयान् ॥ ६ ॥
इत्यश्वस्य शुभलक्षणानि । (१) कफश्च इति (क) पुस्तकपाठः । , (२) स्थाच्छितलोचनः इति (ख) पुस्तकपाठः।
(३) स पूजितः इति (ग) पुस्तकपाठः ।