________________
१८४
युक्तिकपतरो
तद्यथाकालिका हरिणी शुक्ला काचा मक्षिकया सह । शको मूषलकञ्चैव दन्तानां चलता(ता)तथा। इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु । ४३ ॥ चतुर्भिवत्सरै न्ताश्चत्वारः परिकीर्तिताः । पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिका: ॥ ४४ ॥ षष्ठे संवत्सरे प्राप्त कालिकान्या भवेत् तु हि । तथान्या सप्तमे वर्षे चतुर्थी (१) कालिका भवेत् ॥ ४५ ॥ अष्टमे वत्सरे प्राप्ते जायन्ते सर्वकालिकाः । नवमे त्वथ ता: सर्वा आपोताः सम्भवन्ति च ॥ ४६ ॥ केचिदेकादशे वर्षे तावत् पोतत्वमागताः । ततः श्वेताः प्रजायन्ते चतुर्दशसमावधि ॥ ४७ ॥ ततः काचप्रमाः सम्यग् यावत् संवसरास्त्रयः । ततः सप्तदशादूच यावर्षाणि विंशतिः ॥ १८ ॥ मक्षिकाभां वदन्त्येषां (२) यावदर्षत्रयं पुन: । शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥ ४ ॥ त्रयोविंशात् परे वर्षे दशमा मूषला मताः । षड़विंशात् परतो दन्ताः स्थानाञ्चलनमाप्नुयुः ॥ ५० ॥ यावर्षत्रयं पश्चानिपतन्ति समात्रये। द्वात्रिंशद्दमरे वाजी नूनं निर्बाणमाप्न यात् ॥ ५१ ॥
इत्यश्व-वयः स्थानम्।
(१) चतुर्थे इति (क) पुस्तक पाठः । (२) मतिभाभावदन्तेषां इति (ख) पुस्तक पाठः ।