________________
बुक्तिकमतरोअधमः (१) कौर्त्तितः खङ्गस्तत्समो वाधिकः पलैः ॥ ५७ ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मता: ॥ ५८ ॥
इति खग परीक्षायां मानाध्यायः । भोजस्तु,दौर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ ५८ ।। खवता गुरुता चैव मन्दता तनुता तथा । .
सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ ६० : इति निखिलमुदारमुक्तमत्र वहुतन्त्रेषु निकृष्ण खन यष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते म चिरतरां श्रियमुच्छितां
लभेत ॥ ६१॥ इति श्रीभोजराजौये युक्तिकल्पतरो खत परीक्षा ::
अथ चर्म-लक्षणम्। शरीरावरक शस्त्र चर्म इत्यभिधीयते । तत् पुनर्दिविधं काष्ठं चर्मसम्भवभेदतः ॥ ६२ ॥ शरीरावरकत्वच्च लघुता दृढ़ता तथा। दुर्भद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ ६३ ॥ स्वल्पता गुरुता (२) चैव मृदुता मुखभेद्यता। विरुवर्णता (३) चेति चर्मणां दोष संग्रह ॥ ४ ॥
(१) अधमे इति (क) पुस्तक पाठः । (२) लघुता इति (ख) पुस्तक पाठः । (३) वस्तुता इति (ग) पुस्तक पाठः ।