________________
शक्तिः ।
१७३ नखेन वाथ दण्डेन तथा लौहशलाकया। लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ ४ ॥ इति खड्न परीक्षायां ध्वन्यध्यायोऽष्टमः ॥
___ अथ द्विविधं मानम्। यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदोहि हि विविधो मतः ॥ ५० ॥ उत्तमं यदिशालं स्यालघुमानं प्रकीर्तितम् । अधर्म तच्च यत् खब्ब (१) गुरुमानं प्रकीर्तितम् ॥ ५१ ॥ तत्पुन स्त्रिविधं प्रोतमादिमध्यान्तभेदतः ॥ ५५२ ॥
यो मुष्टि विंशति समायततीव्रधारो, भर्भवेत् प्रसरतोऽपि षडंगुलीभिः । मानेन चाष्ट पलिकः स हि खङ्गमध्ये ; नाति प्रकृष्टन विकष्टफलप्रदः स्यात् ।। ५३ ॥ यो हादशाष्ट नवमुष्टिभिरायतः स्यात्, मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽधिको वा ;
खङ्गाधमो धनयशः कुलनाशनाय ॥ ५४ ॥ नागाज्जुनोऽपि,यावत्यो मुष्टयो दैर्घ्यं तदाङ्गलयो यदा । प्रसरे तचतुर्थाशमिति वै मानमुत्तमम् ॥ ५५ ॥ यावत्यो मुष्टयो दैये प्रसरतत्त्रिभागिकः । पलैस्तदईस्तुलितः स खङ्गो मध्य उच्यते ॥ ५६ ॥ यावत्यो मुष्टयो दैर्घ्य तुल्यांशः प्रसरे तु तत् ।
(१) यच्च खरवं इति (क) पुस्तक पाठः ।