________________
१७२
युक्तिकमतरोयत्र सरवस्येव खङ्गे नखहत (१) ध्वनिः । हंसध्वनिरयं खङ्गः सकलार्थ प्रसाधनः ॥ २८ ॥ कांस्यशब्द इवामाति यस्मिन् खङ्गे हते ध्वनिः । कांस्यध्वनिरयं खङ्गः प्राह नागाजनो मुनिः ॥ ४० ॥
अवस्य लक्षणं पतितम् ।
ढक्काशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । ढकाध्वनिरयं खङ्गः सर्वशत्रुनिमूदनः ॥ ४१ ॥ काकस्वर इवाभाति यस्मिन् खङ्गे हते ध्वनिः । काकखरोऽयं खङ्गः स्यात् श्रीयश: कुलनाशनः ॥ ४२ ॥ तन्वीवरसमो यस्मिन् भवेत् खाने हते ध्वनिः । तन्त्रीध्वनिरयं खङ्गः कुलश्रीधननाशनः ॥ ४३ ॥ खरस्येव धनिर्यस्मिन् खरध्वनिरयं मतः। श्रीयशो-ज्ञान-विज्ञान-जयतेजो विनाशनः ॥ ४४ ॥ प्रस्तरस्येव यः खङ्गः स निन्द्यः खड्न लक्षणे ॥ ४५ ॥ गभीरतार ध्वनिता खनस्य शुभलक्षणम् । उत्तानमन्द्रध्वनिता खङ्गस्याशुभलक्षणम् ॥ ४६ ॥ अपाङ्ग नेत्रहीनोऽपि खगः सुध्वनिरुत्तमः (२) । अन्धः कुरूपो मनुजो यथा भुवि सुगायन: (३) ॥ ४७ ॥ सब्बलक्षणसम्पन्नः खङ्गो यो ध्वनि-वर्जितः । स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवजित: । ४८ ॥
(१) खड़ गेन खहते इति (क) पुस्तकपाठः । (२) खड़गेषु ध्वनिरुच्यते इति (ख) पुस्तक पाठः । (३) यदा भुवि युगायनः इति (ग) पुस्तक पाठः