________________
युक्तिः ।
सामान्याद द्विगुणञ्चोक्तं (इं) कलिर्दशगुणस्ततः । कलेः शतगुणं भद्रं भद्राइत्रं सहस्रधा ॥ ३१ ॥ वच्चात् षष्टिगुणः पाण्डिर्निरविर्दशभिर्गुणैः । ततः कोटिसहस्रेण हायस्कान्तः प्रशस्यते ॥ ३२ ॥ [ इत्यादिकं रसायनोपयोगिकमेव नतु खड़े दृष्टफलम् । ]
यदाह ।
एषां तु लौहनातीनां वज्रं खङ्गाय युज्यते ॥ ३३ ॥
तथाच ।
ये खजास्तीच्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः, केचित् साङ्गा निरङ्गाः कतिचन समला निर्मला: केचिदेव | ते भौमाः कुर्व्वतेऽमी धनविजयवलं षड्गुणा निर्गुणा वा ; ते दुःखं स्तोकमुग्रं दधति वलकुल श्रीयशोनाशनास्ते ॥ ३४ ॥ इति खग परीक्षायां भूम्यध्यायः सप्तमः ॥
1
अथाष्टधा ध्वनिः ।
ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे ।
तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥ ३५ ॥
तदुयथा ।
हंस कांस्ये तथा मेघः ढक्का काकश्च तन्विका । गर्दभः प्रस्तरश्चैव ध्वनिरष्टविधः स्मृतः ॥ ३६ ॥ पूर्वे चत्वारः शुभदाः परे निन्दास्पदा स्तथा । विचाय्य खङ्गमानञ्च कर्त्तव्यं खड़कोविदैः ॥ ३७॥ घोरस्तार इति ख्यातो द्विविधः खङ्गकोविदैः । घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥ ३८ ॥
१७१