________________
१७०
बुक्तिकल्पतरौ -
येऽमृतोत्थाः (१) कर्व्वराङ्गाः मन्दाङ्गाः सम्भवन्ति च । बलोपलितमालिन्य ज्वराव्याधि विनाशनाः ! यत्रैव पतितं यत् तु तत्तदाकरतां गताः (२) ॥ २३ ॥ तद्यथा ।
वाराणसीमगधसिंहल-भूमिभावी, नेपालभूमिषु तथाङ्ग महोप्रदेशे । सौराष्ट्रिकेऽन्यतरधन्य महोविभागे;
शुद्धायसां कृतिवराः प्रवदन्ति जन्म ॥ २४ ॥ तद्यथा । वाराणसेयाः सुस्निग्धास्तीच्णधाराः सदङ्गिनः । लघवः सुखसन्धेया ज्ञेयाश्वाभेद्यशालिनः ॥ २५ ॥ मागधा: कर्कशाः स्थलधारा गूढ़तराङ्गिणः । गुरवो दुःखसन्धेयाः खना ज्ञेया विचक्षणैः ॥ २६ ॥ नेपालदेश-प्रभवा निरङ्गा निश्चलाच ये ।
ज्ञेया: (३) सदङ्गा मलिना लघवः स्थूलधारिणः ॥ २७ ॥ कलिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तन्तु हेतवः । सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः ॥ २८ ॥ सिंहलद्दीपजातानां चतुर्द्धा भेद उच्यते ।
केचित् सदङ्गा गुरवः कर्कशा : स्निग्धधारिणः ॥ २८ ॥ केचित् सदङ्गा लघवः सुस्निग्धाः स्थलधारिणः । एषां रूपेण मिश्रण ज्ञेया हि द्विजजातयः ॥ ३० ॥
( १ ) येऽमृतोथा इति (क) पुस्तक पाठ: । (२) तत्तदाकरतां गतं इति (ख) पुस्तक पाठः । (३) अङ्गा इति (ग) पुस्तक पाठः ।