________________
।
अजयुक्तिः । ... १६६ __ अथ द्विविधा भूमिः। दिव्यभौमविभागेन भूमिर्या विविधा मता। दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥ तल्लक्षणमशेषेण लिख्यते तबिवोधत। देवदानवयोमध्ये सनसृष्टिरभूत् पुरा। ते खङ्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥
दिव्य-लक्षणं यथा। ये खगाः स्थलधारा भृशमतिलघवो निर्मलागाः सुनेत्राः, ये रिष्टाचाखरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् । दुर्भद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाको ; ते दिव्याः कुतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाशु (२) ॥१८॥
अथ भौमलक्षणम्। वृहदारीते,
पूर्व महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ;
कालायसामाकरतां जगाम ॥ २० ॥ पुरामृतं क्षौरसमुद्रमध्यादुत्याद्य संग्राह्य ययुः सुरेन्द्राः ।। तहिन्दवो यत्र निपेतुरेष शुद्धायसामाकरतां जगाम ॥ २१ ॥
ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि। मूळदाहज्वरानाह शोक हिकावमौकरा: ॥ २२ ॥
(१) लघव इति (क) पुस्तक पाठः । (२) वृद्धिमते इति (ख) पुस्तक पाठः ।