________________
१६८
युक्तिकल्पतरौअरिष्टे कङ्कपत्राभे कटारिष्ट तदुच्यते । अस्य स्पर्शन-मात्रेण नश्यत्यायुयशो वलम् ॥ ७ ॥ खजूरवृक्ष-प्रतिमं यदारिष्टस्तु लक्ष्यते । खजूरारिष्टमेतत् स्थाइत्तः कुलधनापहम् ॥ ८ ॥ गोशृङ्गाभमरिष्ट चेत् शृङ्गारिष्टं तदुच्यते । अनेन भत्तुनश्यन्ति लक्ष्मीवल-कुलादयः ॥ ८ ॥ गोपुच्छाकृति चेत् खड्ने अरिष्टं संप्रतीक्ष्यते । पुच्छारिष्टमिदं नाम भत्तुंः सर्वार्थ-नाशनम् ॥ १० ॥ खनित्राभमरिष्ट चेत् खनित्रारिष्टमुच्यते । शूराणामपि संग्राम भङ्गमेतत् प्रयच्छति ॥ ११ ॥ अरिष्टे लाङ्गलाकार लाङ्गलारिष्टमुच्यते। अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा। अयमायुः श्रियं हन्ति विद्यां वलमशेषतः ॥ १२ ॥
(वड़िशारिष्टस्य लक्षणं पतितं ।) इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः । बिचार्येतानि मतिमान् खङ्ग कोशे निधापयेत् । १३ ॥ दिवानमिदमुद्दिष्टमरिष्टानां हितात्मनाम् (१) । अमङ्गलानां मन्दानां दर्शनच्चाशुभावहम् ॥ १४ ॥ अरिष्टमेकमेवस्याद् हिररिष्टं शुभावहम् । अन्यान्यमशुभं हन्यादिषस्य हि विषं यथा ॥ १५ ॥ एकमारभ्य (२)सप्तान्तमरिष्टं प्राह नान्यथा । यथोत्तरं द्विगुणितं फलमाहुर्मनीषिणः ॥ १६ ॥
इति खानपरोयामरिष्टाध्यायः षष्ठः ॥ (१) हतात्मनाम् इति (क) पुस्तक पाठः । (२) एकादारभ्य इति (ख) पुस्तक पाठः ।