________________
अस्वयुक्तिः ।
तस्य स्पर्शनमात्रेण सचेलं स्नानमाचरेत् ॥ ८७ ॥ कालिकारिष्टमित्येतद् धौष्टति स्मृति नाशनम् ॥ ८८ ॥ एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः । दारो नाम महारिष्टं सर्व्वाभीष्ट - विनाशनम् । अनेकगुण-सम्पन्नः खड्गो लोकैर्न ग्टह्यते ॥ ६६॥ कपोतपक्षप्रतिममरिष्टं चेत् तदाह्वयम् । भर्त्तः कुलं यशो विद्यां वलं वुद्धिञ्च नाशयेत् ॥ १०० ॥ काकाक्कृति र्यदारिष्ट' काकारिष्टं तदोच्यते । अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ १ ॥ अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते । भर्त्तुर्यशो वलं वोय्र्य्यं वुद्धिं प्रौतिञ्च नाशयेत् ॥ २ ॥ यदान्यल्लोहशकलं (१) ( लग्नं स्यादिव लक्ष्यते । शकलीति स वै खगः सर्व्वाभीष्ट-निसूदनः ॥ ३ ॥
(क्रोड़ी कुशपत्रकयोर्लक्षणे पतिते) । यस्मिन् निम्नमिवाभाति मध्ये वा दृश्यते कचित् । जालारिष्ट(२)मिदं नाम भर्त्तुः कुलधनापहम् ॥ ४ ॥ एकैकरेखा दोर्घाग्रा यदा पल्लविनौ भवेत् । स्पर्शे वाथ करेणाथ कराला (३) रिष्टमुच्यते ॥ ५ ॥ अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्नहि । दर्शनादेव नश्यन्ति यशो लक्ष्मी -जयादयः ॥ ६ ॥
( १ ) सकलं इति (क) पुस्तक पाठः । (२) जलारिष्ट इति (ख) पुस्तक पाठः । (३) करोलोऽ इति (ग) पुस्तक पाठः ।
१६७