________________
.६६
युक्तिकल्पतरोरेखाकारं यदारिष्टमूर्छ वा तिर्यगेव वा । रेखारिष्टमिदं विद्धि भत्तुर्वोयवलापहम् ॥ ८७ ॥ भिवभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः । भत्त: कुलं यशो राष्ट्र नाहत्वा(हा) न ब्रजेत् स्वयम् ॥ ८८ ॥ यदा भेक शिरोरूपमरिष्टं दृश्यते क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ॥ ८ ॥ अरिष्टे मूषिकाकार मूषिकारिष्टमुच्यते। अयं खङ्गाधमः कुर्यात् पत्युः पातालसङ्गमम् ॥ ८० ॥ विड़ालनयनाकारो विन्दुरेकोऽतिविस्तरः । विडालारिष्टमेतत् स्यात् भत्तुः सर्वार्थनाशनम् ॥ २१ ॥ अरिष्ट शर्कराकारं यदा स्पर्शन वुध्यते । शर्करारिष्टमेतत् स्याहनवुद्धि विनाशनम् ॥ ८२ ॥ यदा नोलोरसाभासमरिष्टं दृश्यते क्वचित् । नोल्यरिष्टमिदं (१) ज्ञेयं यशो लक्ष्मी-विनाशनम् ॥ २३ ॥ परिष्टे मशकाकारी मशकारिष्टमुच्यते । भत्त: कुलं यशो वुद्धिं तिं प्रोतिञ्च नाशयेत् ॥ ८४ ॥ भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा । भृङ्गामारिष्ट इत्येष धृतिस्मति बिनाशनः ॥ १५ ॥ सूचौरूपमरिष्टं चेदूच वा तिर्यगेव वा। सूचरिष्टमिदं नाम भत्तुः कुलविनाशनम् ॥ ८६ ॥ त्रयश्चेविन्दवो राजन् पङ्क्तयो विषमेण (२) वा। उपर्युपरि वाधोऽधस्त्रिविन्दाख्यमरिष्टकम् ।
(१) नोलारिष्ठमिदं इति (क) पुस्तक पाठः । (२) वैधमेन इति (ख) पुस्तक पाठः ।