________________
अस्खयुक्तिः। हि(त्रि)नेत्रमिति जानीयात् स्वसंज्ञा (१) नेत्रयोइयो। त्रिनेत्रच्च विभियं बहुनेत्रमतःपरम् ॥ ७ ॥ यथोत्तरं गुणवहं खङ्गमाहुरनुत्तमम् । दिनात्रमिति (२) निर्दिष्ट नेत्राणां शुभदायिनाम् । तीब्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥ ८० ॥
इति खङ्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् । नेत्रेषु स्थाननियमो नारोष्टे स्थान-निर्णयः । प्रशस्ताङ्गोऽपि यः खनोऽरिष्टेनैकेन निन्दितः ॥ ८१ ॥
अथ त्रिंशदरिष्टानां लक्षणानि । छिद्रकाकपदे-रेख भिन्नं भकश्च मूषिका । विड़ाल शर्करानीला मशको भङ्ग(भृङ्ग)सूचकः ॥ ८२ ॥ विन्दुश्च कालिकादेवी कपोतः काकविग्रहः । खर्परः सकलो चाथ क्रोडारिष्टं तथाकुलम् ॥ ८३ ॥ जलारिष्टं (३) करालाख्य कशखजरशृङ्गकम् । गोपुच्छारिष्ट-खानिने लाङ्गलारिष्टमेव च ॥ ८४ ॥ छिद्रवद् दृश्यते खड्ने स्वभावेन च लक्ष्यते। छिद्रारिष्ट(४)मिदं विधि भर्तुऊर्यवलापहम् ॥ ८५ ॥ यदा काकपदाकारमरिष्टं दृश्यते क्वचित् अयं काकपदारिष्टः सर्वाभीष्ट-विनाशनः ॥ ८६ ॥
(१) संसर्गात् इति (क) पुस्तक पाठः । (२) दिङ्नेत्रमिति (ख) पुस्तक पाठः । (३) जालारिष्टं इति (न) पुस्तक पाठः । (४) रेखारिष्ट इति (घ) पुस्तकपाठः ।