________________
युक्तिकल्पतरौचामराक्कति नेत्रत्वात् तन्नेत्रमिति निर्दिशत् । अस्य प्रभावात् जायन्ते चामरोद्धृत-सम्पदः ॥ ७० ॥ एकानेक(१)शिखे शैलनेने तन्नेत्रसंज्ञकम् । अपि राष्ट्रभये युद्धे विषमे वैरिसकटे । स्थिरीकरोति धरणी धरणों पर्वतो यथा ॥ ७१ ॥ पुष्पमाला-समं नेत्रं पुष्पनेत्र वदन्तितम् । अस्य प्रभावात् तुष्यन्ति ग्रहाः सर्वाश्च देवताः ॥ ७२ ॥ भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् । अयं शत्रुगणं हन्ति यथा मत्त्यै भुजङ्गमः ॥ ७३ ॥ सवर्णमसवर्णञ्च तत् सर्वं विधिधं भवेत् । सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम् ॥ ७४ ॥ इयोरेका पृष्ठे च तत् पुनर्दिविधं (२) भवेत्। एकलोकसुखं नेदं ददाति हिविधं द्वयोः ॥ ७५ ॥ मूलमध्याग्रसंस्थानात्तत् पुनर्दिविधं भवेत् । अग्रे चाग्राफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥ ७६ ॥ मूले फलं जघन्यं स्यात् (३) प्राह नागार्जुनो मुनिः । एकं हे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः ॥ ७७ ॥ एक धर्मः स्वर्गकामी हे त्रीणि च त्रिवर्गकम् । तत्फलानि (४) प्रयच्छन्ति प्राह नागाजनो मुनिः ॥ ७८ ॥
(१) एकनेत्र इति (क) पुस्तक पाठः । (२) विविधं इति (ख) पुस्तक पाठः । (३) मूले जलं यदजन्य स्थात् इति (ग) पुस्तक पाठः । (४) जलानि इति (घ) पुस्तक पाठः।