________________
अस्त्रयुक्तिः। शार्दूलनेनं तं विद्याच्छाई लाकृति-नेत्रतः । शत्रुश्रेणी-विनाशाय संग्राम विजयाय च ॥ ५ ॥ सिंहाक्कति यंदा नेत्र सिंहनेत्रमिमं विदुः ॥ अस्य प्रभावात् क्षीणोऽपि कत्नां साधयते महोम् ॥ ६ ॥ तत् सिंहासननेत्रं स्यान्नेत्रे सिंहासनोपमे। अस्य प्रभावात् क्षितिपः कत्नां साधयते महोम् ॥ ६१ ॥ गजाकृति यंदा नेत्र गजनेत्रं वदन्तितम् । अस्यप्रभावात् क्षीणोऽपि (१) लभते राजसम्पदम् ॥ ३२ ॥ नेत्र हंसाकति यंदा हंसनेत्र वदन्ति तम् । अस्य प्रभावात् भूपालो यश: प्राप्नोत्यनुत्तमम् ॥ ६३ ॥ मयूराकृति नेत्र हे तन्नेत्रमिति निद्दिशेत् । अस्य प्रभावान्मनुज: सर्पदर्पान् (३) निसूदयेत् ॥ ६४ ॥ जिज्ञाकारं यदा नेत्र जिह्वानेत्रं वदन्ति च । संग्रामकखपरेष्ववं पिवेद वैरिशिरोरजः ॥ ६५ ॥ दन्ताकारं यदा नेत्र दन्तनेत्रं वदन्तितम् । अयं रिपुगणं मूनि (२) चबयत्यति भैरवम् ॥ ६६ ॥ खङ्गाकारं यदा नेत्र खङ्गनेत्रं वदन्तितम् । अस्य प्रभावात् मनुजस्त्रिलोकी वशयेदपि ॥ ६७ ॥ मनुष्य पुत्रिकाकारा पुत्रिका नेत्रमुच्यते । अयं सशैलां सहीपां कृत्स्नां साधयते क्षितिम् ॥ ६८ ॥ न चेयं पुत्रिका किन्तु जयलक्ष्मौरिह स्वयम् । तस्मान्वायं मनुष्थानामल्पभाग्येन लभ्यते ॥ ६८ ॥
(१) चितिपः इति (क) पुस्तक पाठः । (२) युद्ध इति (ख) पुस्तक पाठः । (३) वर्पान् इति (ग) पुस्तक पाठः ।