________________
१६२
युक्तिकल्पतरौअयं निशीथे विजने खनो झनझनायते । यनेत्रमङ्गुशाकारं तं (त्) विद्याद्गुणवत्तरम् ॥ ५० ॥ खङ्गमङ्गुशनेत्राख्यौं भर्तुः सर्वार्थसाधक(न)म् । अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ ५१ ॥ छत्राकारं यदा नेत्र छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात् क्षोणोऽपि सार्वभौमो भवेदनृपः ॥ ५२ ॥ दोनोऽपि च सुखी भूयात् सुखो भूयान्महेश्वरः । महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्ती भवेदन न संशयः ॥ ५३ ॥ पताकाकति नेत्र चेत् सर्वसम्पत्ति-कारकम् । पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ ५४ ॥ नेत्र वीणाकति यंदा वीणानेत्रमुशन्ति(१)तम् । निशोथे विजने खङ्गो वीणावत् स्वनमावहेत् (२)। अस्य प्रभावात् स(ख)ङ्घश्या अपि वश्या भवन्ति हि ॥५५॥ मत्स्याकृति यंदा नेत्रं मत्स्यनेत्रमिदं विदुः । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महोम् ॥ ५६ ॥ शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः । भत्तः सव्वार्थ-संसिद्धेय शत्रूणां नाशनाय च । वामपावं तु यात्रायां धत्तं व्योऽयं तथा रणे (३) ॥ ५७ ॥
(अत्र ध्वजाईचन्द्रकलसानां लक्षणानि पतितानि।) शूलाकृति यदा नेत्रशूलनेत्रं वदन्ति तम् । सर्वार्थ-साधकः सर्वारिष्टानिष्ट-प्रणाशनः ॥ ५८ ॥
(१) बदन्ति इति (क) पुस्तक पाठः । (२) वन्धनिमावहत् इति (ख) पुस्तक पाठः । (३) व्रणे इति (ग) पुस्तक पाठः ।