________________
अस्त्रयुक्तिः। चक्रपझे गदा शङ्खौ भयवईबवा१शः । छत्र. पताका वीणा च मत्स्यन्तु शिवलिङ्गकः ॥ ४० ॥ ध्वजाईचन्द्रकलसा शूलं शार्दूल नेत्रकम्। , सिंहः सिंहासनञ्चैव गजहंसमयरकाः ॥ ४१॥ जिह्वा दन्ताश्च खङ्गश्च मनुष्यश्चामरस्तथा। शैलश्चैव तथा पुष्प माला सर्षप एव च ॥ ४२ ॥ चक्राकारं यदा नेत्र खनस्याङ्ग प्रदृश्यते । तं चक्रनेत्र जानीयात् भत्तुः सर्वार्थसाधनम् ॥ ४३ ॥ अनेनैकेन खङ्गे न कत्नां साधयते महोम् । प्रफुल्लप सङ्काशं नेत्र पद्मदलोपमम् ॥ ४४ । यदि वा दृश्यते खङ्गे पद्मनेत्र समादिशेत्। अयं खानवरो यत्र तत्रैव कमलालया ॥ ४५ ॥ ऊर्खा स्थला यदा रेखा गदाकारा प्रतीयते । गदानेत्रमिदं विद्धि सर्वशत्रुनिसूदनम् ॥ ४६ ॥ शलाकारं यदा नेत्र खङ्गमध्येऽभि(१)दृश्यते। शवनेत्रमिदं सर्व देवानामपि दुर्लभम् ॥ ४७ ॥ डमरुप्रतिम नेत्र यस्य भूमौ प्रतीयते। सर्वार्थ-साधकं खङ्ग तं (२) विद्याहिजयप्रदम् ॥ ४८ ॥ धनुः स्वरूपं यन्नेत्र धनुर्नेत्रमुशन्तितम् (३)। तस्य स्पर्शनमात्रेण मन्दोऽपि प्रमुखायते ॥ ४८ ॥
(१) अति दृश्यते इति (क) पुस्तक पाठः । (२) तत् इति (ख) पुस्तक पाठः । (३) यन्नेयं धनुर्नेत्रसुषन्तितं इति (ग) पुस्तक पाठः ।
२१