________________
१६०
युक्तिकल्पतरौनौलवर्णः कृष्णवर्णः संस्कार निर्मलो भवेत् । शाणेन खरता चास्य घाततुल्य निवन्तति ॥ ३१ ॥ वैश्यजातिरयं खङ्गः क्षते त्वभावदर्शनम् (१७) । नात्युत्कृष्टो नातिहोन: सर्वत्र वोपलभ्यते ॥ ३२ ॥ सजलाम्भोदसङ्काशः स्थूलधारो मृदुखरः । संस्कार चैव मलिन: शाणे चापि खरेतरः ॥ ३३ ॥ शूद्रजातिरयं खगः क्षते नाल्पापि वेदना। दूरादेषो(१८)ऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः । ३४ ॥ प्रायशः सर्वलोकेषु स्वयमेवोपदृश्यते। हयोर्लक्षणमालोक्य जारजं खड्गमादिशेत् ॥ ३५ ॥ त्रयाणां लक्षणेनैव त्रिजातिं खन(१८)मादिशेत् । चतुणां लक्षणेनैव जाति-सङ्करमुच्यते ॥ ॥ ३६ ॥ इति लौहार्णवस्य खगपरीक्षायां जात्यध्यायः ।
अथ त्रिंशन्नेत्राणां लक्षणाणि ॥ अङ्ग स्यात् सर्वतो वापि नेत्रमेकत्रसंस्थितम् * । अतः परन्तु नेत्राणां लक्षणं संप्रवक्ष्यते ॥ ३७॥ नेत्रेणैकेन हस्तेन निन्दितोपि प्रशस्यते।
तथा जाति विहीनोपि गुणवान् पूज्यते नरः ॥ ३८ ॥ खनः सदङ्गो न च नेत्र होनो न पूज्यते नाम्बुकरः स एवः । यथा मनुष्यः खलु सुन्दराङ्गोनकर्मयोग्यो भुवि नेत्रहीनः ॥ ३८ ॥ (१७) क्षतेवं नानदर्शनं इति (क) पुस्तक पाठः । (१८) देशो इति (ख) पुस्तक पाठः । (१२) शङ्ख इति (ग) पुस्तक पाठः । * अङ्गमित्यारभ्य भुविनेवहीन इत्यन्तं श्लोकवयं (ख) पुस्तके अधिकं पठ्यते ।