________________
स्वयुक्तिः ।
खतं ब्राह्मणजातिं तं प्राह नागाज्जुंनो मुनिः । अस्य क्षते भवेच्छोथो घोरः सब्बीङ्गगोचरः ॥ २० ॥ मूर्च्छा पिपासा दाहश्च ज्वरो मृत्य ुच जा 1 अष्टष्टं त्रिफलाकल्कमर्श्व रात्रिन्दिवोषितम् ॥ २१ ॥ मलिनत्व' न सन्धत्ते निर्मलं कुरुते परम् । तरुणादित्यकिरण-स्पर्शादेव टणे स्थितः ॥ २२ ॥ दहेत् सव्र्व्वं न तु करं पुरुषस्य हि धारिणः । गायत्र्ञ्चारमात्रेण खरतां व्रजति स्फ ुटम् ॥ २३ ॥ एष खङ्गवरः सर्व्वमरिष्ट नाशयेदुध्रुवम् । अस्य प्रसादात् पुरुष स्त्रिलोकमपि साधयेत् ॥ २४ ॥ तस्मादेव मनुष्याणां सुलभो नहि भूतले । दृश्यन्ते प्रायश: स्वर्गे (१५) कुशद्दीपे हिमालये ॥ २५ ॥ ब्राह्मणजातिः ।
धम्म्रवर्णं महासारं तीक्ष्णधारं खरखरम् 1
सघातसहं सर्व्वनेत्रवर्णस्वराकरम् ॥ २६ ॥ खनं चत्रियजातिं तं जानीयात् खड़कोविदः । अस्य क्षते भवेद्दाहस्तृषानाहो ज्वरो भ्रमः ॥ २७ ॥ मृत्युश्च जायते शाणे वमेद्दङ्किकणान् वहन् । संस्कारे चाप्यसंस्कारे नर्मूल्यं तस्य लक्ष्यते ॥ २८ ॥ शाणेऽप्यशाणे खरतामूर्द्धि (१६) चात्यन्ततीक्ष्णता । रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम् ॥ २८ ॥ अयं खङ्गवरः पूज्यो मनुष्यैरपि लभ्यते ॥ ३० ॥
ܬ
(१५) मुझे इति (क) पुस्तक पाठः । (१६) युद्ध इति (ख) पुस्तक पाठः ।
१५८